Sukta 1.47
त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना । कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना । कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥
tri-vandhuréṇa tri-vṛ́tā su-péśasā ráthenā́ yātam aśvinā | káṇvāso vāṃ bráhma kṛṇvanty adhvaré téṣāṃ su śṛṇutaṃ hávam ||
Come, O Aśvins, with the well-formed chariot of three seats and triple turning, beautiful in its shaping. The Kaṇvas fashion the brahman in the sacrifice; listen well to their call.
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । सु॒ऽपेश॑सा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ । कण्वा॑सः । वा॒म् । ब्रह्म॑ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा॑म् । सु । शृ॒णु॒त॒म् । हव॑म् ॥त्रिवन्धुरेण । त्रिवृता । सुपेशसा । रथेन । आ । यातम् । अश्विना । कण्वासः । वाम् । ब्रह्म । कृण्वन्ति । अध्वरे । तेषाम् । सु । शृणुतम् । हवम् ॥tri-vandhureṇa | tri-vṛtā | su-peśasā | rathena | ā | yātam | aśvinā | kaṇvāsaḥ | vām | brahma | kṛṇvanti | adhvare | teṣām | su | śṛṇutam | havam