Sukta 1.47
अयं वां मधुमत्तमः सुतः सोम ऋतावृधा । तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥
अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा । तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
ayáṃ vāṃ mádhumattamaḥ sutáḥ sóma ṛtāvṛdhā | tám aśvinā pibatam tiró-ahnyaṃ dhattáṃ rátnāni dāśúṣe ||
This for you is the most honeyed Soma, pressed out, O increasers of Ṛta; drink it, O Aśvins, the Soma that passes beyond the day, and place in the giver the jewels—powers of fulfilled being.
अ॒यम् । वा॒म् । मधु॑मत्ऽतमः । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ । तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रःऽअ॑ह्न्यम् । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥अयम् । वाम् । मधुमत्तमः । सुतः । सोमः । ऋतवृधा । तम् । अश्विना । पिबतम् । तिरःअह्न्यम् । धत्तम् । रत्नानि । दाशुषे ॥ayam | vām | madhumat-tamaḥ | sutaḥ | somaḥ | ṛta-vṛdhā | tam | aśvinā | pibatam | tiraḥ-ahnyam | dhattam | ratnāni | dāśuṣe