Sukta 1.46
या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । तामस्मे रासाथामिषम् ॥
या न॒: पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः । ताम॒स्मे रा॑साथा॒मिष॑म् ॥
yā́ naḥ pī́parad aśvinā jyótiṣmatī támas tiraḥ | tā́m asmē rāsā́thām íṣam ||
That which has brought us forward, O Aśvins—luminous, crossing beyond the darkness—grant that nourishing power to us here, so our being may pass from obscurity into the clear light of right seeing.
या । नः॒ । पीप॑रत् । अ॒श्वि॒ना॒ । ज्योति॑ष्मती । तमः॑ । ति॒रः । ताम् । अ॒स्मे इति॑ । रा॒सा॒था॒म् । इष॑म् ॥या । नः । पीपरत् । अश्विना । ज्योतिष्मती । तमः । तिरः । ताम् । अस्मे इति । रासाथाम् । इषम् ॥yā | naḥ | pīparat | aśvinā | jyotiṣmatī | tamaḥ | tiraḥ | tām | asme iti | rāsāthām | iṣam