Sukta 1.46
वावसाना विवस्वति सोमस्य पीत्या गिरा । मनुष्वच्छम्भू आ गतम् ॥
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा । म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥
vāvasānā́ vivásvati sómasya pītyā́ girā́ | manuṣvác chambhū́ ā́ gátam ||
Shining forth in the radiant one (the luminous consciousness), by the drinking of Soma and by the word of affirmation, come to us in the human way, O you two who are powers of bliss and well-being.
वा॒व॒सा॒ना । वि॒वस्व॑ति । सोम॑स्य । पी॒त्या । गि॒रा । म॒नु॒ष्वत् । श॒म्भू॒ इति॑ शम्ऽभू । आ । ग॒त॒म् ॥वावसाना । विवस्वति । सोमस्य । पीत्या । गिरा । मनुष्वत् । शम्भू इति शम्भू । आ । गतम् ॥vāvasānā | vivasvati | somasya | pītyā | girā | manuṣvat | śambhūitiśam-bhū | ā | gatam