Sukta 1.46
तत्तदिदश्विनोरवो जरिता प्रति भूषति । मदे सोमस्य पिप्रतोः ॥
तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति । मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
tát-tad íd aśvínoḥ ávo jaritā́ práti bhūṣati | máde sómasya pípra-toḥ ||
That very help of the Aśvins the singer seeks and adorns with his response; for in the ecstasy of Soma, those two are the fulfillers who make plenitude grow.
तत्ऽत॑त् । इत् । अ॒श्विनोः॑ । अवः॑ । ज॒रि॒ता । प्रति॑ । भू॒ष॒ति॒ । मदे॑ । सोम॑स्य । पिप्र॑तोः ॥तत्तत् । इत् । अश्विनोः । अवः । जरिता । प्रति । भूषति । मदे । सोमस्य । पिप्रतोः ॥tat-tat | it | aśvinoḥ | avaḥ | jaritā | prati | bhūṣati | made | somasya | pipratoḥ