Sukta 1.46
युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् । ऋता वनथो अक्तुभिः ॥
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् । ऋ॒ता व॑नथो अ॒क्तुभि॑: ॥
yuvór uṣā́ ánu śríyaṃ pári-jmanoḥ upā́carat | ṛtā́ vanatho aktúbhiḥ ||
Following your splendor, Dawn moves near to the two who journey around; you win (and open) the truths by the nights—bringing right order even through the dark passages.
यु॒वोः । उ॒षाः । अनु॑ । श्रिय॑म् । परि॑ऽज्मनोः । उ॒प॒ऽआच॑रत् । ऋ॒ता । व॒न॒थः॒ । अ॒क्तुऽभिः॑ ॥युवोः । उषाः । अनु । श्रियम् । परिज्मनोः । उपआचरत् । ऋता । वनथः । अक्तुभिः ॥yuvoḥ | uṣāḥ | anu | śriyam | pari-jmanoḥ | upa-ācarat | ṛtā | vanathaḥ | aktu-bhiḥ