Sukta 1.46
अभूदु पारमेतवे पन्था ऋतस्य साधुया । अदर्शि वि स्रुतिर्दिवः ॥
अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या । अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
abhūd u pā́ram étave pánthā ṛtásya sā́dhuyā́ | ádarśi ví srútiḥ diváḥ ||
Then the path is formed for the crossing beyond—the good-going path of the Ṛta; and the outflowing track of heaven is seen distinctly, a passage opened for the ascent.
अभू॑त् । ऊँ॒ इति॑ । पा॒रम् । एत॑वे । पन्था॑ । ऋ॒तस्य॑ । सा॒धु॒ऽया । अद॑र्शि । वि । स्रु॒तिः । दि॒वः ॥अभूत् । ऊँ इति । पारम् । एतवे । पन्था । ऋतस्य । साधुया । अदर्शि । वि । स्रुतिः । दिवः ॥abhūt | oṃ iti | pāram | etave | panthā | ṛtasya | sādhu-yā | adarśi | vi | srutiḥ | divaḥ