Sukta 1.42
शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् । पूषन्निह क्रतुं विदः ॥
श॒ग्धि पू॒र्धि प्र यं॑सि च शिशी॒हि प्रास्यु॒दर॑म् । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
śágdhi pū́rdhi prá yaṃsi ca śiśīhí prā́si udáram | pū́ṣann ihá krátuṃ vidaḥ ||
Grant us strength and fill us; give forth and increase; sharpen our energies; and satisfy the inner hunger. O Pūṣan, here know and order our will.
श॒ग्धि । पू॒र्धि । प्र । यं॒सि॒ । च॒ । शि॒शी॒हि । प्रासि॑ । उ॒दर॑म् । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥शग्धि । पूर्धि । प्र । यंसि । च । शिशीहि । प्रासि । उदरम् । पूषन् । इह । क्रतुम् । विदः ॥śagdhi | pūrdhi | pra | yaṃsi | ca | śiśīhi | prāsi | udaram | pūṣan | iha | kratum | vidaḥ