Sukta 1.42
आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे । येन पितॄनचोदयः ॥
आ तत्ते॑ दस्र मन्तुम॒: पूष॒न्नवो॑ वृणीमहे । येन॑ पि॒तॄनचो॑दयः ॥
ā́ tát te dasra mantu-máḥ pū́ṣann ávo vṛṇīmahe | yéna pitṝ́n ácodayāḥ ||
We choose for ourselves that saving help of thine, O wondrous Pūṣan, that inspired guidance by which thou didst set the Fathers in motion—leading them on the true way.
आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒ऽमः॒ । पू॒ष॒न् । अवः॑ । वृ॒णी॒म॒हे॒ । येन॑ । पि॒तॄन् । अचो॑दयः ॥आ । तत् । ते । दस्र । मन्तुमः । पूषन् । अवः । वृणीमहे । येन । पितॄन् । अचोदयः ॥ā | tat | te | dasra | mantu-maḥ | pūṣan | avaḥ | vṛṇīmahe | yena | pitṝn | acodayaḥ