Sukta 1.42
यो नः पूषन्नघो वृको दुःशेव आदिदेशति । अप स्म तं पथो जहि ॥
यो न॑: पूषन्न॒घो वृको॑ दु॒:शेव॑ आ॒दिदे॑शति । अप॑ स्म॒ तं प॒थो ज॑हि ॥
yó naḥ pūṣann aghó vṛ́ko duḥśéva ādídeśati | ápa smá táṁ pathó jahi ||
O Pūṣan, the harmful wolf who points us to ill-faring—strike him away from the path for us.
यः । नः॒ । पू॒ष॒न् । अ॒घः । वृकः॑ । दुः॒शेव॑ । आ॒ऽदिदे॑शति । अप॑ । स्म॒ । तम् । प॒थः । ज॒हि॒ ॥यः । नः । पूषन् । अघः । वृकः । दुःशेव । आदिदेशति । अप । स्म । तम् । पथः । जहि ॥yaḥ | naḥ | pūṣan | aghaḥ | vṛkaḥ | duḥśeva | ādideśati | apa | sma | tam | pathaḥ | jahi