Sukta 1.42
सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् । सक्ष्वा देव प्र णस्पुरः ॥
सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात् । सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः ॥
sáṁ pūṣann ádhvanas tira vy áṁho vimúco napāt | sákṣvā deva prá ṇas puráḥ ||
O Pūṣan, stretch out for us across the road; O child of release, loosen away the distress: O god, go with us in front, as our companion-leader.
सम् । पू॒ष॒न् । अध्व॑नः । ति॒र॒ । वि । अंहः॑ । वि॒ऽमु॒चः॒ । न॒पा॒त् । सक्ष्व॑ । दे॒व॒ । प्र । नः॒ । पु॒रः ॥सम् । पूषन् । अध्वनः । तिर । वि । अंहः । विमुचः । नपात् । सक्ष्व । देव । प्र । नः । पुरः ॥sam | pūṣan | adhvanaḥ | tira | vi | aṃhaḥ | vi-mucaḥ | napāt | sakṣva | deva | pra | naḥ | puraḥ