Sukta 1.41
कथा राधाम सखायः स्तोमं मित्रस्यार्यम्णः । महि प्सरो वरुणस्य ॥
क॒था रा॑धाम सखाय॒: स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः । महि॒ प्सरो॒ वरु॑णस्य ॥
kathā́ rādhāma sakhāyaḥ stómaṁ mitrásyāryamṇáḥ | máhi psáro váruṇasya ||
How shall we, as comrades, rightly shape the hymn for Mitra and Aryaman—how speak the vast inspirings of Varuṇa?
क॒था । रा॒धा॒म॒ । स॒खा॒यः॒ । स्तोम॑म् । मि॒त्रस्य॑ । अ॒र्य॒म्णः । महि॑ । प्सरः॑ । वरु॑णस्य ॥कथा । राधाम । सखायः । स्तोमम् । मित्रस्य । अर्यम्णः । महि । प्सरः । वरुणस्य ॥kathā | rādhāma | sakhāyaḥ | stomam | mitrasya | aryamṇaḥ | mahi | psaraḥ | varuṇasya