Sukta 1.41
स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना । अच्छा गच्छत्यस्तृतः ॥
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ । अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
sá ratnáṁ mártyo vásu víśvaṁ tókamu tá tmanā́ | ácchā gacchaty ástṛtaḥ ||
That mortal reaches the treasure—every good, and the increase of his lineage—by his own self’s right force; he goes straight to it, not turned aside.
सः । रत्न॑म् । मर्त्यः॑ । वसु॑ । विश्व॑म् । तो॒कम् । उ॒त । त्मना॑ । अच्छ॑ । ग॒च्छ॒ति॒ । अस्तृ॑तः ॥सः । रत्नम् । मर्त्यः । वसु । विश्वम् । तोकम् । उत । त्मना । अच्छ । गच्छति । अस्तृतः ॥saḥ | ratnam | martyaḥ | vasu | viśvam | tokam | uta | tmanā | accha | gacchati | astṛtaḥ