Sukta 1.41
यं यज्ञं नयथा नर आदित्या ऋजुना पथा । प्र वः स धीतये नशत् ॥
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था । प्र व॒: स धी॒तये॑ नशत् ॥
yáṁ yajñáṁ náyathā nara ādityā ṛjúnā pathā́ | prá vaḥ sá dhītáye naśat ||
That sacrifice which you lead, O Ādityas, by the straight path—may it come forward to you for the awakening of our thought.
यम् । य॒ज्ञम् । नय॑थ । न॒रः॒ । आदि॑त्याः । ऋ॒जुना॑ । प॒था । प्र । वः॒ । सः । धी॒तये॑ । न॒श॒त् ॥यम् । यज्ञम् । नयथ । नरः । आदित्याः । ऋजुना । पथा । प्र । वः । सः । धीतये । नशत् ॥yam | yajñam | nayatha | naraḥ | ādityāḥ | ṛjunā | pathā | pra | vaḥ | saḥ | dhītaye | naśat