Sukta 1.41
सुगः पन्था अनृक्षर आदित्यास ऋतं यते । नात्रावखादो अस्ति वः ॥
सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते । नात्रा॑वखा॒दो अ॑स्ति वः ॥
sugáḥ pánthā anṛ́kṣara ādityāsa ṛtáṁ yaté | nátrāvakʰādó asti vaḥ ||
O Ādityas, the path is good and does not break down for one who goes by the Truth; here for you there is no pitfall, no collapse.
सु॒ऽगः । पन्था॑ । अ॒नृ॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते । न । अत्र॑ । अ॒व॒ऽखा॒दः । अ॒स्ति॒ । वः॒ ॥सुगः । पन्था । अनृक्षरः । आदित्यासः । ऋतम् । यते । न । अत्र । अवखादः । अस्ति । वः ॥su-gaḥ | panthā | anṛkṣaraḥ | ādityāsaḥ | ṛtam | yate | na | atra | ava-khādaḥ | asti | vaḥ