Sukta 1.41
वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । नयन्ति दुरिता तिरः ॥
वि दु॒र्गा वि द्विष॑: पु॒रो घ्नन्ति॒ राजा॑न एषाम् । नय॑न्ति दुरि॒ता ति॒रः ॥
ví durgā́ ví dvíṣaḥ puró ghnanti rājāna eṣām | náyanti duritā́ tiráḥ ||
They make the hard passages wide; they smite the hostile barriers before us; these kings lead our difficulties across and beyond.
वि । दुः॒ऽगा । वि । द्विषः॑ । पु॒रः । घ्नन्ति॑ । राजा॑नः । ए॒षा॒म् । नय॑न्ति । दुः॒ऽइ॒ता । ति॒रः ॥वि । दुःगा । वि । द्विषः । पुरः । घ्नन्ति । राजानः । एषाम् । नयन्ति । दुःइता । तिरः ॥vi | duḥ-gā | vi | dviṣaḥ | puraḥ | ghnanti | rājānaḥ | eṣām | nayanti | duḥ-itā | tiraḥ