Sukta 1.41
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः । अरिष्टः सर्व एधते ॥
यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः । अरि॑ष्ट॒: सर्व॑ एधते ॥
yaṁ bāhúte̍va píprati pā́nti mártyaṁ riṣáḥ | áriṣṭaḥ sárva edhate ||
The mortal whom they foster as with strong arms and guard from hurt—he grows in all completeness, unbroken and unharmed.
यम् । बा॒हुता॑ऽइव । पिप्र॑ति । पान्ति॑ । मर्त्य॑म् । रि॒षः । अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥यम् । बाहुताइव । पिप्रति । पान्ति । मर्त्यम् । रिषः । अरिष्टः । सर्वः । एधते ॥yam | bāhutāiva | piprati | pānti | martyam | riṣaḥ | ariṣṭaḥ | sarvaḥ | edhate