Sukta 1.4
उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद्रेवतो मदः ॥
उप॑ न॒: सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब । गो॒दा इद्रे॒वतो॒ मद॑: ॥
úpa naḥ savánā́ gahi sómasya soma-pāḥ piba | go-dā́ íd revató mádaḥ ||
Come near to our pressings; arrive. O Soma-drinker, drink of the Soma. For the ecstasy that gives the Rays (the illumined herds) is indeed the rapture of the opulent plenitude.
उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ । गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥उप । नः । सवना । आ । गहि । सोमस्य । सोमपाः । पिब । गोदाः । इत् । रेवतः । मदः ॥upa | naḥ | savanā | ā | gahi | somasya | soma-pāḥ | piba | go--dāḥ | it | revataḥ | madaḥ