Sukta 1.39
असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥
असा॑मि॒ हि प्र॑यज्यव॒: कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युत॑: ॥
asā́mi hí prayajyaváḥ káṇvaṃ dadá pracétasaḥ | asā́mibhir maruta ā́ na ūtíbhiḥ gántā vṛ́ṣṭiṃ ná vidyútaḥ ||
For you are unwearied, O eager worshippers, O clear-minded ones—you have given to Kaṇva. With your unwearied helps, O Maruts, come to us like rain, like the lightning’s release.
असा॑मि । हि । प्र॒ऽय॒ज्य॒वः॒ । कण्व॑म् । द॒द । प्र॒ऽचे॒त॒सः॒ । असा॑मिऽभिः । म॒रु॒तः॒ । आ । नः॒ । ऊ॒तिऽभिः॑ । गन्त॑ । वृ॒ष्टिम् । न । वि॒ऽद्युतः॑ ॥असामि । हि । प्रयज्यवः । कण्वम् । दद । प्रचेतसः । असामिभिः । मरुतः । आ । नः । ऊतिभिः । गन्त । वृष्टिम् । न । विद्युतः ॥asāmi | hi | pra-yajyavaḥ | kaṇvam | dṛ | pra-cetasaḥ | asāmi-bhiḥ | marutaḥ | ā | naḥ | ūti-bhiḥ | ganta | vṛṣṭim | na | vi-dyutaḥ