Sukta 1.39
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥
यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभि॑: ॥
yuṣméṣito maruto mártyeṣita ā́ yó no ábhva ī́ṣate | ví táṃ yuyota śávasā vy ójasā ví yuṣmā́kābhir ūtíbhiḥ ||
Whether driven by you, O Maruts, or driven by a mortal, whoever presses upon us with vast hostile force—separate him from us by your might, by your strength, by your own rescuing helps.
यु॒ष्माऽइ॑षि॑तः । म॒रु॒तः॒ । मर्त्य॑ऽइषितः । आ । यः । नः॒ । अभ्वः॑ । ईष॑ते । वि । तम् । यु॒यो॒त॒ । शव॑सा । वि । ओज॑सा । वि । यु॒ष्माका॑भिः । ऊ॒तिऽभिः॑ ॥युष्माइषितः । मरुतः । मर्त्यइषितः । आ । यः । नः । अभ्वः । ईषते । वि । तम् । युयोत । शवसा । वि । ओजसा । वि । युष्माकाभिः । ऊतिभिः ॥yuṣmāiṣitaḥ | marutaḥ | martya-iṣitaḥ | ā | yaḥ | naḥ | abhvaḥ | īṣate | vi | tam | yuyota | śavasā | vi | ojasā | vi | yuṣmākābhiḥ | ūti-bhiḥ