Sukta 1.39
असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः । ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥
असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतय॒: शव॑: । ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥
asā́my ójo bibhṛthā su-dānávó ’sā́mi dhūtáyaḥ śávaḥ | ṛṣi-dvíṣe marutaḥ pari-manyávo iṣúṃ ná sṛ́jata dvísam ||
O Maruts, bounteous givers, you bear an unmeasured force and an unmeasured impetuous might. Against the foe who hates the seer, you, circling in wrath, launch the hostile power like an arrow—driving back the adversary of the vision.
असा॒मि । ओजः॑ । बि॒भृ॒थ॒ । सु॒ऽदा॒न॒वः॒ । असा॑मि । धू॒त॒यः॒ । शवः॑ । ऋ॒षि॒ऽद्विषे॑ । म॒रु॒तः॒ । प॒रि॒ऽम॒न्यवे॑ । इषु॑म् । न । सृ॒ज॒त॒ । द्विष॑म् ॥असामि । ओजः । बिभृथ । सुदानवः । असामि । धूतयः । शवः । ऋषिद्विषे । मरुतः । परिमन्यवे । इषुम् । न । सृजत । द्विषम् ॥asāmi | ojaḥ | bibhṛtha | su-dānavaḥ | asāmi | dhūtayaḥ | śavaḥ | ṛṣi-dviṣe | marutaḥ | pari-manyave | iṣum | na | sṛjata | dviṣam