Sukta 1.39
आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥
आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे । गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥
ā́ vo makṣū́ tánāya káṃ rudrā́ ávo vṛṇīmahe | gántā nū́naṃ no'vásā yáthā purétthā kaṇvā́ya bibhyúṣe ||
Swiftly we choose your help, O Rudras, for the growth of our being. Come now with your protection, as once you came in that same way to Kaṇva when he feared.
आ । वः॒ । म॒क्षु । तना॑य । कम् । रुद्राः॑ । अवः॑ । वृ॒णी॒म॒हे॒ । गन्त॑ । नू॒नम् । नः॒ । अव॑स् ॒यथा॑ । पु॒रा । इ॒त्था । कण्वा॑य । बि॒भ्युषे॑ ॥आ । वः । मक्षु । तनाय । कम् । रुद्राः । अवः । वृणीमहे । गन्त । नूनम् । नः । अवस् यथा । पुरा । इत्था । कण्वाय । बिभ्युषे ॥ā | vaḥ | makṣu | tanāya | kam | rudrāḥ | avaḥ | vṛṇīmahe | ganta | nūnam | naḥ | avas yathā | purā | itthā | kaṇvāya | bibhyuṣe