Sukta 1.39
उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः । आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥
उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः । आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥
upó ratheṣu pṛ́ṣatīr ayugdhvaṃ práṣṭir vahati róhitaḥ | ā́ vo yā́māya pṛthivī́ cid aśrod ábībhayanta mā́nuṣāḥ ||
You have yoked the dappled ones to your chariots; the ruddy one bears the pole. At your coming-journey even the Earth has heard—and men trembled in their human consciousness.
उपो॒ इति॑ । रथे॑षु । पृष॑तीः । अ॒यु॒ग्ध्व॒म् । प्रष्टिः॑ । व॒ह॒ति॒ । रोहि॑तः । आ । वः॒ । यामा॑य । पृ॒थि॒वी । चि॒त् । अ॒श्रो॒त् । अबी॑भयन्त । मानु॑षाः ॥उपो इति । रथेषु । पृषतीः । अयुग्ध्वम् । प्रष्टिः । वहति । रोहितः । आ । वः । यामाय । पृथिवी । चित् । अश्रोत् । अबीभयन्त । मानुषाः ॥upo iti | ratheṣu | pṛṣatīḥ | ayugdhvam | praṣṭiḥ | vahati | rohitaḥ | ā | vaḥ | yāmāya | pṛthivī | cit | aśrot | abībhayanta | mānuṣāḥ