Sukta 1.39
प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् । प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥
प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न् । प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑स॒: सर्व॑या वि॒शा ॥
prá vepayanti párvatān ví viñcanti vanaspátīn | pró ārat maruto durmádā iva devā́saḥ sárvayā viśā́ ||
They make the mountains tremble; they tear apart the lords of the forest. Forward they rush, O Maruts, like gods intoxicated with power—moving through every clan of our nature.
प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । वि । वि॒ञ्च॒न्ति॒ । वन॒स्पती॑न् । प्रो इति॑ । आ॒र॒त॒ । म॒रु॒तः॒ । दु॒र्मदाः॑ऽइव । देवा॑सः । सर्व॑या । वि॒शा ॥प्र । वेपयन्ति । पर्वतान् । वि । विञ्चन्ति । वनस्पतीन् । प्रो इति । आरत । मरुतः । दुर्मदाःइव । देवासः । सर्वया । विशा ॥pra | vepayanti | parvatān | vi | viñcanti | vanaspatīn | pro iti | ārata | marutaḥ | durmadāḥ-iva | devāsaḥ | sarvayā | viśā