Sukta 1.39
नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः । युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥
न॒हि व॒: शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥
náhi vaḥ śátrur vividé ádhi dyávi ná bhū́myāṃ riśādasaḥ | yuṣmā́kam astu táviṣī tánā yujā́ rudrāso nū́ cid ā́dhṛṣe ||
No enemy has found you—neither in heaven nor on earth, O destroyers of harm. Let your strength be ours in the yoking of our being; O Rudras, even now may we be unassailable.
न॒हि । वः॒ । शत्रुः॑ । वि॒वि॒दे । अधि॑ । द्यवि॑ । न । भूम्या॑म् । रि॒शा॒द॒सः॒ । यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । तना॑ । यु॒जा । रुद्रा॑सः । नु । चि॒त् । आ॒ऽधृषे॑ ॥नहि । वः । शत्रुः । विविदे । अधि । द्यवि । न । भूम्याम् । रिशादसः । युष्माकम् । अस्तु । तविषी । तना । युजा । रुद्रासः । नु । चित् । आधृषे ॥nahi | vaḥ | śatruḥ | vivide | adhi | dyavi | na | bhūmyām | riśādasaḥ | yuṣmākam | astu | taviṣī | tanā | yujā | rudrāsaḥ | nu | cit | ādhṛṣe