Sukta 1.39
परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु । वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥
परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु । वि या॑थन व॒निन॑: पृथि॒व्या व्याशा॒: पर्व॑तानाम् ॥
parā́ ha yát sthiráṃ hátha náro vartáyathā gurú | ví yāthana vanínaḥ pṛthivyā́ vy ā́śāḥ párvatānām ||
Indeed, when you strike down what is rigid, you heroes, and set the heavy mass in motion, you drive apart the forest-growth of earth; you open out the directions of the mountains.
परा॑ । ह॒ । यत् । स्थि॒रम् । ह॒थ । नरः॑ । व॒र्तय॑थ । गु॒रु । वि । या॒थ॒न॒ । व॒निनः॑ । पृ॒थि॒व्याः । वि । आशाः॑ । पर्व॑तानाम् ॥परा । ह । यत् । स्थिरम् । हथ । नरः । वर्तयथ । गुरु । वि । याथन । वनिनः । पृथिव्याः । वि । आशाः । पर्वतानाम् ॥parā | ha | yat | sthiram | hatha | naraḥ | vartayatha | guru | vi | yāthana | vaninaḥ | pṛthivyāḥ | vi | āśāḥ | parvatānām