Sukta 1.34
क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥
क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः । क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥
kvà trī́ cakrā́ tri-vṛ́to ráthasya kvà tráyo vandhúro yé sa-nīḷā́ḥ | kadā́ yógo vājíno rāsábhasya yéna yajñáṃ nāsatyopayā́thaḥ ||
Where are the three wheels of your triple-turning chariot, and where the three seats bound together in one dwelling? When will the yoking of the forceful ass be ready, by which, O Nāsatyas, you come near to the sacrifice?
क्व॑ । त्री । च॒क्रा । त्रि॒ऽवृतः॑ । रथ॑स्य । क्व॑ । त्रयः॑ । व॒न्धुरः॑ । ये । सऽनी॑ळाः । क॒दा । योगः॑ । वा॒जिनः॒ । रास॑भस्य । येन॑ । य॒ज्ञम् । ना॒स॒त्या॒ । उ॒प॒ऽया॒थः ॥क्व । त्री । चक्रा । त्रिवृतः । रथस्य । क्व । त्रयः । वन्धुरः । ये । सनीळाः । कदा । योगः । वाजिनः । रासभस्य । येन । यज्ञम् । नासत्या । उपयाथः ॥kva | trī | cakrā | tri-vṛtaḥ | rathasya | kva | trayaḥ | vandhuraḥ | ye | sa-nīḷāḥ | kadā | yogaḥ | vājinaḥ | rāsabhasya | yena | yajñam | nāsatyā | upa-yāthaḥ