Sukta 1.34
आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः । युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥
आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्व॑: पिबतं मधु॒पेभि॑रा॒सभि॑: । यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥
ā́ nāsatyā gácchatam hū́yate havír mádhvaḥ pibatam madhu-pébhiḥ ā́sabhiḥ | yuvór hí pū́rvaṃ savitóṣaso rátham ṛtā́ya citráṃ ghṛtá-vantam íṣyati ||
Come, O Nāsatyas; the offering is being called—drink the honeyed essence with honey-drinking mouths. For Savitṛ, before you, urges the Dawn’s chariot—bright and filled with ghee—for the Truth (ṛta).
आ । ना॒स॒त्या॒ । गच्छ॑तम् । हू॒यते॑ । ह॒विः । मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । यु॒वोः । हि । पूर्व॑म् । स॒वि॒ता । उ॒षसः॑ । रथ॑म् । ऋ॒ताय॑ । चि॒त्रम् । घृ॒तऽव॑न्तम् । इष्य॑ति ॥आ । नासत्या । गच्छतम् । हूयते । हविः । मध्वः । पिबतम् । मधुपेभिः । आसभिः । युवोः । हि । पूर्वम् । सविता । उषसः । रथम् । ऋताय । चित्रम् । घृतवन्तम् । इष्यति ॥ā | nāsatyā | gacchatam | hūyate | haviḥ | madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ | yuvoḥ | hi | pūrvam | savitā | uṣasaḥ | ratham | ṛtāya | citram | ghṛta-vantam | iṣyati