Sukta 1.34
त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् । तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥
त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् । ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥
trír aśvinā síndhubhiḥ saptá-mātṛbhiḥ tráya āhā́vā́s tredhā́ havíṣ-kṛtám | tísraḥ pṛthivī́r upári pravā́ divó nā́kaṃ rakṣethe dyúbhir aktúbhir hitám ||
Thrice, O Aśvins, with the rivers that have seven mothers, the three invocations are set, and the offering is fashioned in a threefold order. You guard the three earths, and above them the heaven’s summit, established by luminous days and by nights.
त्रिः । आ॒श्वि॒ना॒ । सिन्धु॑ऽभिः । स॒प्तमा॑तृऽभिः । त्रयः॑ । आ॒ऽहा॒वाः । त्रे॒धा । ह॒विः । कृ॒तम् । ति॒स्रः । पृ॒थि॒वीः । उ॒परि॑ । प्र॒वा । दि॒वः । नाक॑म् । र॒क्षे॒थे॒ इति॑ । द्युऽभिः॑ । अ॒क्तुऽभिः॑ । हि॒तम् ॥त्रिः । आश्विना । सिन्धुभिः । सप्तमातृभिः । त्रयः । आहावाः । त्रेधा । हविः । कृतम् । तिस्रः । पृथिवीः । उपरि । प्रवा । दिवः । नाकम् । रक्षेथे इति । द्युभिः । अक्तुभिः । हितम् ॥triḥ | āśvinā | sindhu-bhiḥ | saptamātṛ-bhiḥ | trayaḥ | āhāvāḥ | tredhā | haviḥ | kṛtam | tisraḥ | pṛthivīḥ | upari | pravā | divaḥ | nākam | rakṣetheiti | dyu-bhiḥ | aktu-bhiḥ | hitam