Sukta 1.34
त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् । तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥
त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् । ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒: स्वस॑राणि गच्छतम् ॥
trír no aśvinā yajatā́ divé-dive pári tri-dhā́tu pṛthivī́m aśāyatam | tísro nāsatyā rathyā parā́vata ātméva vā́taḥ svásarāṇi gacchatam ||
Thrice each day, O adorable Aśvins, you encompass and set in its threefold foundation the earth of our being. O Nāsatyas, with your three chariot-paths from the far beyond, move like the very breath of life, going to the sister-lights (the Dawns).
त्रिः । नः॒ । अ॒स्वि॒ना॒ । य॒ज॒ता । दि॒वेऽदि॑वे । परि॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । अ॒शा॒य॒त॒म् । ति॒स्रः । ना॒स॒त्या॒ । र॒थ्या॒ । प॒रा॒ऽवतः॑ । आ॒त्माऽइ॑व । वातः॒ । स्वस॑राणि । ग॒च्छ॒त॒म् ॥त्रिः । नः । अस्विना । यजता । दिवेदिवे । परि । त्रिधातु । पृथिवीम् । अशायतम् । तिस्रः । नासत्या । रथ्या । परावतः । आत्माइव । वातः । स्वसराणि । गच्छतम् ॥triḥ | naḥ | asvinā | yajatā | dive--dive | pari | tri-dhātu | pṛthivīm | aśāyatam | tisraḥ | nāsatyā | rathyā | parāvataḥ | ātmāiva | vātaḥ | svasarāṇi | gacchatam