Sukta 1.34
त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः । ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥
त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः । ओ॒मानं॑ शं॒योर्मम॑काय सू॒नव॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥
trír no aśvinā divyā́ni bheṣajā́ tríḥ pārthívāni trír u dattam adbhyáḥ | omā́naṃ śam-yór mamakā́ya sūnáve tri-dhā́tu śárma vahatam śúbhaspatī ||
Thrice give us, O Aśvins, the heavenly healings; thrice the earthly, and thrice those drawn out from the waters. Bring to the child of our house the protection that is peace and well-being; bear to him the threefold-founded shelter, O lords of beauty and harmony.
त्रिः । नः॒ । अ॒श्वि॒ना॒ । दि॒व्यानि॑ । भे॒ष॒जा । त्रिः । पार्थि॑वान् । त्रिः । ऊँ॒ इति॑ । द॒त्त॒म् । अ॒त्ऽभ्यः । ओ॒मान॑म् । श॒म्ऽयोः । मम॑काय । सू॒नवे॑ । त्रि॒ऽधातु॑ । शर्म॑ । व॒ह॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥त्रिः । नः । अश्विना । दिव्यानि । भेषजा । त्रिः । पार्थिवान् । त्रिः । ऊँ इति । दत्तम् । अत्भ्यः । ओमानम् । शम्योः । ममकाय । सूनवे । त्रिधातु । शर्म । वहतम् । शुभः । पती इति ॥triḥ | naḥ | aśvinā | divyāni | bheṣajā | triḥ | pārthivān | triḥ | oṃ iti | dattam | at-bhyaḥ | omānam | śam-yoḥ | mamakāya | sūnave | tri-dhātu | śamar | vahatam | śubhaḥ | patī