Sukta 1.34
त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः । त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥
त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धिय॑: । त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥
trír no rayíṃ vahatam aśvinā yuváṃ trír devátātā trír utā́vatam dhíyaḥ | tríḥ saubhagátvaṃ trír utá śrávāṃsi nas tríṣṭháṃ vāṃ sū́re duhitā́ rúhad rátham ||
Thrice bring us the fullness of being, O Aśvins; thrice grant the divine status, and thrice protect our thoughts. Thrice give the happy fortune and thrice our widenesses of fame; the Daughter of the Sun mounts your three-seated chariot.
त्रिः । नः॑ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒वता॑ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः॑ । त्रिः । सौ॒भ॒ग॒ऽत्वम् । त्रिः । उ॒त । श्रवां॑सि । नः॒ । त्रिः॒ऽस्थम् । वा॒म् । सूरे॑ । दु॒हि॒ता । रु॒ह॒त् । रथ॑म् ॥त्रिः । नः । रयिम् । वहतम् । अश्विना । युवम् । त्रिः । देवताता । त्रिः । उत । अवतम् । धियः । त्रिः । सौभगत्वम् । त्रिः । उत । श्रवांसि । नः । त्रिःस्थम् । वाम् । सूरे । दुहिता । रुहत् । रथम् ॥triḥ | naḥ | rayim | vahatam | aśvinā | yuvam | triḥ | devatātā | triḥ | uta | avatam | dhiyaḥ | triḥ | saubhaga-tvam | triḥ | uta | śravāṃsi | naḥ | triḥ-stham | vām | sūre | duhitā | ruhat | ratham