Sukta 1.34
त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥
त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् । त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥
trír vartír yātam trír ánu-vrate jané tríḥ supra-avyè tredhā́iva śíkṣatam | trír nā́ndyaṃ vahatam aśvinā yuváṃ tríḥ pṛ́kṣo asmè ákṣarāiva pinvatam ||
Thrice come by the turning-path, thrice among men who hold to the vow of the Truth; thrice in the well-protected field of action, teach as if in a threefold way. Thrice bring the gladness, O Aśvins, and thrice make the sustaining streams swell in us like an unfailing flow.
त्रिः । व॒र्तिः । या॒त॒म् । त्रिः । अनु॑ऽव्रते । जने॑ । त्रिः । सु॒प्र॒ऽअ॒व्ये॑ । त्रे॒धाऽइ॑व । शि॒क्ष॒त॒म् । त्रिः । ना॒न्द्य॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः॑ । अ॒स्मे इति॑ । अ॒क्षरा॑ऽइव । पि॒न्व॒त॒म् ॥त्रिः । वर्तिः । यातम् । त्रिः । अनुव्रते । जने । त्रिः । सुप्रअव्ये । त्रेधाइव । शिक्षतम् । त्रिः । नान्द्यम् । वहतम् । अश्विना । युवम् । त्रिः । पृक्षः । अस्मे इति । अक्षराइव । पिन्वतम् ॥triḥ | vartiḥ | yātam | triḥ | anu-vrate | jane | triḥ | supra-avye | tredhāiva | śikṣatam | triḥ | nāndyam | vahatam | aśvinā | yuvam | triḥ | pṛkṣaḥ | asme iti | akṣarāiva | pinvatam