Sukta 1.34
समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् । त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥
स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥
samāné áhan trír avadya-gohanā́ trír adyá yajñáṃ mádhunā mimikṣatam | trír vā́javatīr íṣo aśvinā yuváṃ dóṣā asmábhyam uṣásaś ca pinvatam ||
On one and the same day, O Aśvins, slayers of the dark that holds back the rays of light, thrice you mingle our sacrifice with the honey of delight. Thrice you increase for us the impulsions rich in plenitude of force—by Night and by Dawn alike you foster them within us.
स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒ऽगो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् । त्रिः । वाज॑वतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म् ॥समाने । अहन् । त्रिः । अवद्यगोहना । त्रिः । अद्य । यज्ञम् । मधुना । मिमिक्षतम् । त्रिः । वाजवतीः । इषः । अश्विना । युवम् । दोषा । अस्मभ्यम् । उषसः । च । पिन्वतम् ॥samāne | ahan | triḥ | avadya-gohanā | triḥ | adya | yajñam | madhunā | mimikṣatam | triḥ | vājavatīḥ | iṣaḥ | aśvinā | yuvam | doṣā | asmabhyam | uṣasaḥ | ca | pinvatam