Sukta 1.34
आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना । प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
ā́ nāsatyā tribhír ekādaśáir ihá devébhiḥ yātam madhu-péyam aśvinā | prá ā́yuḥ tā́riṣṭaṃ nī́ rapā́ṃsi mṛkṣatam sé-dhatam dvéṣo bhávatam sacā-bhuvā́ ||
Come here, O Nāsatyas, with the thrice-eleven gods; come, O Aśvins, to drink the honeyed draught. Extend our life-force to its safe crossing; wipe away the stains, repel hostility, and become companions in our becoming.
आ । ना॒स॒त्या॒ । त्रि॒भिः । ए॒का॒द॒शैः । इ॒ह । दे॒वेभिः॑ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ । प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥आ । नासत्या । त्रिभिः । एकादशैः । इह । देवेभिः । यातम् । मधुपेयम् । अश्विना । प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाभुवा ॥ā | nāsatyā | tribhiḥ | ekādaśaiḥ | iha | devebhiḥ | yātam | madhu-peyam | aśvinā | pra | āyuḥ | tāriṣṭam | niḥ | rapāṃsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacābhuvā