Sukta 1.34
आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् । शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥
आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् । शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
ā́ no aśvinā tri-vṛ́tā ráthenārvā́ñcaṃ rayíṃ vahatam su-vī́ram | śṛṇvántā vām ávase johavīmi vṛ́dhe ca no bhavatam vā́ja-sātau ||
Come to us, O Aśvins, with your triple-coursing chariot, bringing a wealth that turns toward us—rich in heroic energies. Hearing, I call you for help; be for our increase and for the winning of plenitude of force.
आ । नः॒ । अ॒श्वि॒ना॒ । त्रि॒ऽवृता॑ । रथे॑न । अ॒र्वाञ्च॑म् । र॒यिम् । व॒ह॒त॒म् । सु॒ऽवीर॑म् । शृ॒ण्वन्ता॑ । वा॒म् । अव॑से । जो॒ह॒वी॒मि॒ । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥आ । नः । अश्विना । त्रिवृता । रथेन । अर्वाञ्चम् । रयिम् । वहतम् । सुवीरम् । शृण्वन्ता । वाम् । अवसे । जोहवीमि । वृधे । च । नः । भवतम् । वाजसातौ ॥ā | naḥ | aśvinā | tri-vṛtā | rathena | arvāñcam | rayim | vahatam | su-vīram | śṛṇvantā | vām | avase | johavīmi | vṛdhe | ca | naḥ | bhavatam | vāja-sātau