Sukta 1.33
परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् । अमन्यमानाँ अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ॥
परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वत॑: सीम् । अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ॥
pári yád indra ródasī ubhé ábubhojīr mahinā́ viśvátas sīm | ámanyamānāṃ abhí manyamānair nír brahmábhīr adhámo dásyum indra ||
When, O Indra, by thy greatness thou didst encompass the two worlds on every side, then by the powers of the Word thou didst cast down the Dasyu—the lower one—while the arrogant forces pressed their self-will against the unclaiming soul.
परि॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अबु॑भोजीः । म॒हि॒ना । वि॒श्वतः॑ । सी॒म् । अम॑न्यमानान् । अ॒भि । मन्य॑मानैः । निः । ब्र॒ह्मऽभिः॑ । अ॒ध॒मः॒ । दस्यु॑म् । इ॒न्द्र॒ ॥परि । यत् । इन्द्र । रोदसी इति । उभे इति । अबुभोजीः । महिना । विश्वतः । सीम् । अमन्यमानान् । अभि । मन्यमानैः । निः । ब्रह्मभिः । अधमः । दस्युम् । इन्द्र ॥pari | yat | indra | rodasī iti | ubhe iti | abubhojīḥ | mahinā | viśvataḥ | sīm | amanyamānān | abhi | manyamānaiḥ | niḥ | brahma-bhiḥ | adhamaḥ | dasyum | indra