Sukta 1.33
त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे । अवादहो दिव आ दस्युमुच्चा प्र सुन्वतः स्तुवतः शंसमावः ॥
त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे । अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥
tvám etā́n rudató jákṣataś cā́yodhayo rájasa indra pā́re | ávā́daho divá ā́ dasyúm uccā́ prá sunvatáḥ stuvatáḥ śáṃsam ā́vaḥ ||
You drove these weeping and clamouring ones across the far shore of the mid-space, O Indra. You burned the Dasyu down from heaven, striking him from on high; and you brought forward the inspired utterance of the presser and the praiser—making their affirmation effective.
त्वम् । ए॒तान् । रु॒द॒तः । जक्ष॑तः । च॒ । अयो॑धयः । रज॑सः । इ॒न्द्र॒ । पा॒रे । अव॑ । अ॒द॒हः॒ । दि॒वः । आ । दस्यु॑म् । उ॒च्चा । प्र । सु॒न्व॒तः । स्तु॒व॒तः । शंस॑म् । आ॒वः॒ ॥त्वम् । एतान् । रुदतः । जक्षतः । च । अयोधयः । रजसः । इन्द्र । पारे । अव । अदहः । दिवः । आ । दस्युम् । उच्चा । प्र । सुन्वतः । स्तुवतः । शंसम् । आवः ॥tvam | etān | rudataḥ | jakṣataḥ | ca | ayodhayaḥ | rajasaḥ | indra | pāre | ava | adahaḥ | divaḥ | ā | dasyum | uccā | pra | sunvataḥ | stuvataḥ | śaṃsam | āvaḥ