Sukta 1.33
अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः । वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः । वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥
áyuyutsan anavadyásya sénām áyātayanta kṣitáyo návagvāḥ | vṛṣāyúdho ná vádhrayo nír aṣṭāḥ pravádbhir índrāc citáyanta ā́yan ||
They would not withstand the blameless One’s host; the settled peoples, the Navagvas, drove them from their place. Like bull-armed warriors, like castrated ones cast out, they went away—drifting down the slopes—fearing even Indra’s presence and power.
अयु॑युत्सन् । अ॒न॒व॒द्यस्य॑ । सेना॑म् । अया॑तयन्त । क्षि॒तयः॑ । नव॑ऽग्वाः । वृ॒ष॒ऽयुधः॑ । न । वध्र॑यः । निःऽअ॑ष्टाः । प्र॒ऽवत्ऽभिः॑ । इन्द्रा॑त् । चि॒तय॑न्तः । आ॒य॒न् ॥अयुयुत्सन् । अनवद्यस्य । सेनाम् । अयातयन्त । क्षितयः । नवग्वाः । वृषयुधः । न । वध्रयः । निःअष्टाः । प्रवत्भिः । इन्द्रात् । चितयन्तः । आयन् ॥ayuyutsan | anavadyasya | senām | ayātayanta | kṣitayaḥ | nava-gvāḥ | vṛṣa-yudhaḥ | na | vadhrayaḥ | niḥ-aṣṭāḥ | pra-vat-bhiḥ | indrāt | citayantaḥ | āyan