Sukta 1.33
परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः । प्र यद्दिवो हरिवः स्थातरुग्र निरव्रताँ अधमो रोदस्योः ॥
परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भि॒: स्पर्ध॑मानाः । प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥
párā cic chīrṣā́ vavṛjus tá indrā́yajvāno yájvabhiḥ spárdhamānāḥ | prá yád divó harivaḥ sthā́tar ugrá nír avratā́m adhamó ródasyoḥ ||
Even their heads you cast far away, O Indra, when the non-consecrators contended with the consecrated. When, O strong one with the tawny steeds, you stood forth from heaven, you thrust the lawless down—lowest between the two worlds—so that the path of Order could prevail.
परा॑ । चि॒त् । शी॒र्षा । व॒वृ॒जुः॒ । ते॒ । इ॒न्द्र॒ । अय॑ज्वानः । यज्व॑ऽभिः । स्पर्ध॑मानाः । प्र । यत् । दि॒वः । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । निः । अ॒व्र॒तान् । अ॒ध॒मः॒ । रोद॑स्योः ॥परा । चित् । शीर्षा । ववृजुः । ते । इन्द्र । अयज्वानः । यज्वभिः । स्पर्धमानाः । प्र । यत् । दिवः । हरिवः । स्थातः । उग्र । निः । अव्रतान् । अधमः । रोदस्योः ॥parā | cit | śīrṣā | vavṛjuḥ | te | indra | ayajvānaḥ | yajva-bhiḥ | spardhamānāḥ | pra | yat | divaḥ | hari-vaḥ | sthātaḥ | ugra | niḥ | avratān | adhamaḥ | rodasyoḥ