Sukta 1.33
वधीर्हि दस्युं धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र । धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥
वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र । धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥
vadhī́r hí dasyúṃ dhanínaṃ ghanénaṁ ékaś cárann upaśākébhiḥ indra | dhánor ádhi viṣuṇákte vyā́yan áyajvānaḥ sanakā́ḥ prétiṃ īyuḥ ||
For you did strike down the Dasyu, the wealthy hoarder, with the smashing weapon, moving alone with your supporting powers. From the bow you scattered them as you advanced; the non-sacrificers, of old, went to their dissolution—when the false refused the rite, they could not endure the true force.
वधीः॑ । हि । दस्यु॑म् । ध॒निन॑म् । घ॒नेन॑ । एकः॑ । चर॑न् । उ॒प॒ऽशा॒केभिः॑ । इ॒न्द्र॒ । धनोः॑ । अधि॑ । वि॒षु॒णक् । ते॒ । वि । आ॒य॒न् । अय॑ज्वानः । स॒न॒काः । प्रऽइ॑तिम् । ई॒युः॒ ॥वधीः । हि । दस्युम् । धनिनम् । घनेन । एकः । चरन् । उपशाकेभिः । इन्द्र । धनोः । अधि । विषुणक् । ते । वि । आयन् । अयज्वानः । सनकाः । प्रइतिम् । ईयुः ॥vadhīḥ | hi | dasyum | dhaninam | ghanena | ekaḥ | caran | upa-śākebhiḥ | indra | dhanoḥ | adhi | viṣuṇak | te | vi | āyan | ayajvānaḥ | sanakāḥ | pra-itim | īyuḥ