Sukta 1.33
आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् । शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥
आव॒: कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्प्रावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् । श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥
ā́vaḥ kútsam indra yásmiṃ cā́kan právo yúdhyantaṃ vṛṣabháṃ dáśadyum | śaphacyúto reṇúr nákṣata dyā́m ucchvaitréyo nṛsā́hyāya tasthau ||
Thou didst help Kutsa, O Indra, in whom thou didst delight; thou didst further the battling bull of tenfold splendour. The dust flung from the hoof reached up to heaven; and Śvaitreya stood forth for the man-conquering strength—so the human ally is raised by the god’s victorious power.
आवः॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । प्र । आ॒वः॒ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् । श॒फऽच्यु॑तः । रे॒णुः । न॒क्ष॒त॒ । द्याम् । उत् । श्वै॒त्रे॒यः । नृ॒ऽसह्या॑य । त॒स्थौ॒ ॥आवः । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । प्र । आवः । युध्यन्तम् । वृषभम् । दशद्युम् । शफच्युतः । रेणुः । नक्षत । द्याम् । उत् । श्वैत्रेयः । नृसह्याय । तस्थौ ॥āvaḥ | kutsam | indra | yasmin | cākan | pra | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum | śapha-cyutaḥ | reṇuḥ | nakṣata | dyām | ut | śvaitreyaḥ | nṛ-sahyāya | tasthau