Sukta 1.33
अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ॥
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् । सं वज्रे॑णासृजद्वृ॒त्रमिन्द्र॒: प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥
abhí sidhmó ajigād asya śatrū́n ví tigména vṛṣabhéṇā púro ’bhet | sáṃ vájreṇāsṛjad vṛtrám índraḥ prá svā́ṃ matím atirat śā́śadānaḥ ||
The driving force rushed upon his enemies; with the sharp bull-power he split their fronts. Indra with the thunder-force cast down Vṛtra; pressing forward, he carried beyond his own thought—ever conquering—into a greater victorious seeing.
अ॒भि । सि॒ध्मः । अ॒जि॒गा॒त् । अ॒स्य॒ । शत्रू॑न् । वि । ति॒ग्मेन॑ । वृ॒ष॒भेण॑ । पुरः॑ । अ॒भे॒त् । सम् । वज्रे॑ण । अ॒सृ॒ज॒त् । वृ॒त्रम् । इन्द्रः॑ । प्र । स्वाम् । म॒तिम् । अ॒ति॒र॒त् । शाश॑दानः ॥अभि । सिध्मः । अजिगात् । अस्य । शत्रून् । वि । तिग्मेन । वृषभेण । पुरः । अभेत् । सम् । वज्रेण । असृजत् । वृत्रम् । इन्द्रः । प्र । स्वाम् । मतिम् । अतिरत् । शाशदानः ॥abhi | sidhmaḥ | ajigāt | asya | śatrūn | vi | tigmena | vṛṣabheṇa | puraḥ | abhet | sam | vajreṇa | asṛjat | vṛtram | indraḥ | pra | svām | matim | atirat | śāśadānaḥ