Sukta 1.33
न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः । यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥
न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्र॑: । याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
nyā́vidhyad ilī́biśasya dṛḷhā́ ví śṛṅgíṇam abhinac chúṣṇam índraḥ | yā́vat táro maghavan yā́vad ójo vájreṇa śátrum avadhīḥ pṛtányum ||
Indra pierced down the firm holds of Ilībiśa; he broke the horned Śuṣṇa. As far as thy overcoming might, O bounteous one, as far as thy strength reaches—so far with the thunder-force thou didst slay the battling enemy within us.
नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश॑स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण॑म् । अ॒भि॒न॒त् । शुष्ण॑म् । इन्द्रः॑ । याव॑त् । तरः॑ । म॒घ॒ऽव॒न् । याव॑त् । ओजः॑ । वज्रे॑ण । शत्रु॑म् । अ॒व॒धीः॒ । पृ॒त॒न्युम् ॥नि । अविध्यत् । इलीबिशस्य । दृळ्हा । वि । शृङ्गिणम् । अभिनत् । शुष्णम् । इन्द्रः । यावत् । तरः । मघवन् । यावत् । ओजः । वज्रेण । शत्रुम् । अवधीः । पृतन्युम् ॥ni | avidhyat | ilībiśasya | dṛḷhā | vi | śṛṅgiṇam | abhinat | śuṣṇam | indraḥ | yāvat | taraḥ | magha-van | yāvat | ojaḥ | vajreṇa | śatrum | avadhīḥ | pṛtanyum