Sukta 1.33
अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् । सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥
ánu svadhā́m akṣaran nā́po asyā́vardhata mádhya ā́ nā́vyānām | sadhrīcīnéna mánasā tám indra ójiṣṭhena hánmanā ahann abhí dyū́n ||
Then the waters flowed in their own law, and in the midst the fresh currents grew. With a straight-going mind Indra smote him with the most puissant jaw—he struck through to the shining days, breaking the hold that kept the light from manifestation.
अनु॑ । स्व॒धाम् । अ॒क्ष॒र॒न् । आपः॑ । अ॒स्य॒ । अव॑र्धत । मध्ये॑ । आ । ना॒व्या॑नाम् । स॒ध्री॒चीने॑न । मन॑सा । तम् । इन्द्रः॑ । ओजि॑ष्ठेन । हन्म॑ना । अ॒ह॒न् । अ॒भि । द्यून् ॥अनु । स्वधाम् । अक्षरन् । आपः । अस्य । अवर्धत । मध्ये । आ । नाव्यानाम् । सध्रीचीनेन । मनसा । तम् । इन्द्रः । ओजिष्ठेन । हन्मना । अहन् । अभि । द्यून् ॥anu | svadhām | akṣaran | āpaḥ | asya | avardhata | madhye | ā | nāvyānām | sadhrīcīnena | manasā | tam | indraḥ | ojiṣṭhena | hanmanā | ahan | abhi | dyūn