Sukta 1.3
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना पूतासः ॥
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑: । अण्वी॑भि॒स्तना॑ पू॒तास॑: ॥
índrā́ yā́hi citrabhāno sutā́ imé tvāyávaḥ | áṇvībhiḥ tánā pūtā́saḥ ||
O Indra, come—O bright-flaming power of many lights. These Soma-pressings are for you, purified in their whole substance through the fine strainers, ready for your intake of force.
इन्द्र॑ । आ । या॒हि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सु॒ताः । इ॒मे । त्वा॒ऽयवः॑ । अण्वी॑भिः । तना॑ । पू॒तासः॑ ॥इन्द्र । आ । याहि । चित्रभानो इति चित्रभानो । सुताः । इमे । त्वायवः । अण्वीभिः । तना । पूतासः ॥indra | ā | yāhi | citrabhāno iticitra-bhāno | sutāḥ | ime | tvāyavaḥ | aṇvībhiḥ | tanā | pūtāsaḥ