Sukta 1.3
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातं रुद्रवर्तनी ॥
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑तं रुद्रवर्तनी ॥
dasrā́ yuvā́kavaḥ sutā́ nā́satyā vṛktá-barhiṣaḥ | ā́ yā́taṃ rudra-vartanī ||
O two Wonder-Workers, youthful in your power, O Nāsatyas—when the Soma has been pressed and the seat of offering is made ready—come to us; travel here on the paths of the Rudra-force, that impels and clears the way within.
दस्रा॑ । यु॒वाक॑वः । सु॒ताः । नास॑त्या । वृ॒क्तऽब॑र्हिषः । आ । या॒त॒म् । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी ॥दस्रा । युवाकवः । सुताः । नासत्या । वृक्तबर्हिषः । आ । यातम् । रुद्रवर्तनी इति रुद्रवर्तनी ॥dasrā | yuvākavaḥ | sutāḥ | nāsatyā | vṛkta-barhiṣaḥ | ā | yātam | rudravartanī itirudra-vartanī