Sukta 1.3
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥
पा॒व॒का न॒: सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥
pāvakā naḥ sárasvatī vā́jebhir vājinī́vatī | yajñáṃ vaṣṭu dhiyā́vasuḥ ||
May Sarasvatī, the purifying Power, rich in the plenitudes of force and victorious energies, shape and foster for us the sacrifice—she whose wealth is the illumined thought.
पा॒व॒का । नः॒ । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती । य॒ज्ञम् । व॒ष्टु॒ । धि॒याऽव॑सुः ॥पावका । नः । सरस्वती । वाजेभिः । वाजिनीवती । यज्ञम् । वष्टु । धियावसुः ॥pāvakā | naḥ | sarasvatī | vājebhiḥ | vājinī-vatī | yajñam | vaṣṭu | dhiyāvasuḥ