Sukta 1.3
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । मेधं जुषन्त वह्नयः ॥
विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑: । मेधं॑ जुषन्त॒ वह्न॑यः ॥
víśve devā́so asrídha éhi-māyāso adrúhaḥ | médhaṃ juṣanta váhnayaḥ ||
May all the divine Powers—unfailing, swift in their arriving force, and without hostility—take delight in the sacrifice of understanding; may the bearers of the flame accept and foster our inspired offering within us.
विश्वे॑ । दे॒वासः॑ । अ॒स्रिधः॑ । एहि॑ऽमायासः । अ॒द्रुहः॑ । मेध॑म् । जु॒ष॒न्त॒ । वह्न॑यः ॥विश्वे । देवासः । अस्रिधः । एहिमायासः । अद्रुहः । मेधम् । जुषन्त । वह्नयः ॥viśve | devāsaḥ | asridhaḥ | ehi-māyāsaḥ | adruhaḥ | medham | juṣanta | vahnayaḥ