Sukta 1.28
ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः । इन्द्राय मधुमत्सुतम् ॥
ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑: सो॒तृभि॑: । इन्द्रा॑य॒ मधु॑मत्सुतम् ॥
tā́ no adyá vanaspatī ṛ́ṣvā ṛ́ṣvebhíḥ sotṛ́bhiḥ | índrāya mádhu-mat sutám ||
You two, O lords of the wood, today with the strong pressers press out for Indra the Soma that is honeyed—so sweetness of delight may feed the victorious mind-force within us.
ता । नः॒ । अ॒द्य । व॒न॒स्पती॒ इति॑ । ऋ॒ष्वौ । ऋ॒ष्वेभिः॑ । सो॒तृऽभिः॑ । इन्द्रा॑य । मधु॑ऽमत् । सु॒त॒म् ॥ता । नः । अद्य । वनस्पती इति । ऋष्वौ । ऋष्वेभिः । सोतृभिः । इन्द्राय । मधुमत् । सुतम् ॥tā | naḥ | adya | vanaspatī iti | ṛṣvau | ṛṣvebhiḥ | sotṛ-bhiḥ | indrāya | madhu-mat | sutam